भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.28

9.28.1

॥17॥.
-र्व्_6:8।18-
(र्व्_9,28)
एषः । वाजी । हितः । नृ-भिः । विश्व-वित् । मनसः । पतिः । अव्यः । वारम् । वि । धावति

9.28.2

एषः । पवित्रे । अक्षरत् । सोमः । देवेभ्यः । सुतः । विश्वा । धामानि । आ-विशन्

9.28.3

एषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः । वृत्र-हा । देव-वीतमः

9.28.4

एषः । वृषा । कनिक्रदत् । दश-भिः । जामि-भिः । यतः । अभि । द्रोणानि । धावति

9.28.5

एषः । सूर्यम् । अरोचयत् । पवमानः । वि-चर्षणिः । विश्वा । धामानि । विश्व-वित्

9.28.6

एषः । शुष्मी । अदाभ्यः । सोमः । पुनानः । अर्षति । देव-अवीः । अघशंस-हा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc