ऋग्वेदसंहिता, पदपाठ · अध्याय 9.27
॥16॥.
-र्व्_6:8।17-
(र्व्_9,27)
एषः । कविः । अभि-स्तुतः । पवित्रे । अधि । तोशते । पुनानः । घ्नन् । अप । स्रिधः
एषः । इन्द्राय । वायवे । स्वः-जित् । परि । सिच्यते । पवित्रे । दक्ष-साधनः
एषः । नृ-भिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः । सोमः । वनेषु । विश्व-वित्
एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्य-युः । इन्दुः । सत्राजित् । अस्तृतः
एषः । सूर्येण । हासते । पवमानः । अधि । द्यवि । पवित्रे । मत्सरः । मदः
एषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः । पुनानः । इन्दुः । इन्द्रम् । आ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0