भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.24

9.24.1

॥13॥.
-र्व्_6:8।14-
(र्व्_9,24)
प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः । श्रीणानाः । अप्-सु । मृञ्जत

9.24.2

अभि । गावः । अधन्विषुः । आपः । न । प्र-वता । यतीः । पुनानाः । इन्द्रम् । आशत

9.24.3

प्र । पवमान । धन्वसि । सोम । इन्द्राय । पातवे । नृ-भिः । यतः । वि । नीयसे

9.24.4

त्वम् । सोम । नृ-मादनः । पवस्व । चर्षणि-सहे । सस्निः । यः । अनु-माद्यः

9.24.5

इन्दो इति । यत् । अद्रि-भिः । सुतः । पवित्रम् । परि-धावसि । अरम् । इन्द्रस्य । धाम्ने

9.24.6

पवस्व । वृत्रहन्-तम । उक्थेभिः । अनु-माद्यः । शुचिः । पावकः । अद्भुतः

9.24.7

शुचिः । पावकः । उच्यते । सोमः । सुतस्य । मध्वः । देव-अवीः । अघशंस-हा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc