ग्रंथ पाठ
ऋग्वेदसंहिता, पदपाठ · अध्याय 9.25
9.25.1
॥14॥.
-र्व्_6:8।15-
(र्व्_9,25)
पवस्व । दक्ष-साधनः । देवेभ्यः । पीतये । हरे । मरुत्-भ्यः । वायवे । मदः
9.25.2
पवमान । धिया । हितः । अभि । योनिम् । कनिक्रदत् । धर्मणा । वायुम् । आ । विश
9.25.3
सम् । देवैः । शोभते । वृषा । कविः । योनौ । अधि । प्रियः । वृत्र-हा । देव-वीतमः
9.25.4
विश्वा । रूपाणि । आ-विशन् । पुनानः । याति । हर्यतः । यत्र । अमृतासः । आसते
9.25.5
अरुषः । जनयन् । गिरः । सोमः । पवते । आयुषक् । इन्द्रम् । गच्छन् । कवि-क्रतुः
9.25.6
आ । पवस्व । मदिन्-तम । पवित्रम् । धारया । कवे । अर्कस्य । योनिम् । आसदम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0