भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.23

9.23.1

॥12॥.
-र्व्_6:8।13-
(र्व्_9,23)
सोमाः । असृग्रम् । आशवः । मधोः । मदस्य । धारया । अभि । विश्वानि । काव्या

9.23.2

अनु । प्रत्नासः । आयवः । पदम् । नवीयः । अक्रमुः । रुचे । जनन्त । सूर्यम्

9.23.3

आ । पवमान । नः । भर । अर्यः । अदाशुषः । गयम् । कृधि । प्रजावतीः । इषः

9.23.4

अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । अभि । कोशम् । मधु-श्चुतम्

9.23.5

सोमः । अर्षति । धर्णसिः । दधानः । इन्द्रियम् । रसम् । सु-वीरः । अभिशस्ति-पाः

9.23.6

इन्द्राय । सोम । पवसे । देवेभ्यः । सध-माद्यः । इन्दो इति । वाजम् । सिसाससि

9.23.7

अस्य । पीत्वा । मदानाम् । इन्द्रः । वृत्राणि । अप्रति । जघान । जघनत् । च । नु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc