ऋग्वेदसंहिता, पदपाठ · अध्याय 9.22
॥11॥.
-र्व्_6:8।12-
(र्व्_9,22)
एते । सोमासः । आशवः । रथाः-इव । प्र । वाजिनः । सर्गाः । सृष्टाः । अहेषत
एते । वाताः-इव । उरवः । पर्जन्यस्य-इव । वृष्टयः । अग्नेः-इव । भ्रमाः । वृथा
एते । पूताः । विपः-चितः । सोमासः । दधि-आशिरः । विपा । वि । आनशुः । धियः
एते । मृष्टाः । अमर्त्याः । ससृ-वांसः । न । शश्रमुः । इयक्षन्तः । पथः । रजः
एते । पृष्ठानि । रोदसोः । वि-प्रयन्तः । वि । आनशुः । उत । इदम् । उत्-तमम् । रजः
तन्तुम् । तन्वानम् । उत्-तमम् । अनु । प्र-वतः । आशत । उत । इदम् । उत्तमाय्यम्
त्वम् । सोम । पणि-भ्यः । आ । वसु । गव्यानि । धारयः । ततम् । तन्तुम् । अचिक्रदः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0