ऋग्वेदसंहिता, पदपाठ · अध्याय 9.21
॥10॥.
-र्व्_6:8।11-
(र्व्_9,21)
एते । धावन्ति । इन्दवः । सोमाः । इन्द्राय । घृष्वयः । मत्सरासः । स्वः-विदः
प्र-वृण्वन्तः । अभि-युजः । सुस्वये । वरिवः-विदः । स्वयम् । स्तोत्रे । वयः-कृतः
वृथा । क्रीळन्तः । इन्दवः । सध-स्थम् । अभि । एकम् । इत् । सिन्धोः । ऊर्मा । वि । अक्षरन्
एते । विश्वानि । वार्या । पवमानासः । आशत । हिताः । न । सप्तयः । रथे
आ । अस्मिन् । पिशङ्गम् । इन्दवः । दधात । वेनम् । आदिशे । यः । अस्मभ्यम् । अरावा
ऋभुः । न । रथ्यम् । नवम् । दधात । केतम् । आदिशे । शुक्राः । पवध्वम् । अर्णसा
एते । ओं इति । त्ये । अवीवशन् । काष्ठाम् । वाजिनः । अक्रत । सतः । प्र । असाविषुः । मतिम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0