भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.20

9.20.1

॥9॥.
-र्व्_6:8।10-
(र्व्_9,20)
प्र । कविः । देव-वीतये । अव्यः । वारेभिः । अर्षति । सह्वान् । विश्वाः । अभि । स्पृधः

9.20.2

सः । हि । स्म । जरितृ-भ्यः । आ । वाजम् । गो-मन्तम् । इन्वति । पवमानः । सहस्रिणम्

9.20.3

परि । विश्वानि । चेतसा । मृशसे । पवसे । मती । सः । नः । सोम । श्रवः । विदः

9.20.4

अभि । अर्ष । बृहत् । यशः । मघवत्-भ्यः । ध्रुवम् । रयिम् । इषम् । स्तोतृ-भ्यः । आ । भर

9.20.5

त्वम् । राजा-इव । सु-व्रतः । गिरः । सोम । आ । विवेशिथ । पुनानः । वह्ने । अद्भुत

9.20.6

सः । वह्निः । अप्-सु । दुस्तरः । मृज्यमानः । गभस्त्योः । सोमः । चमूषु । सीदति

9.20.7

क्रीळुः । मखः । न । मंहयुः । पवित्रम् । सोम । गच्छसि । दधत् । स्तोत्रे । सु-वीर्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc