ऋग्वेदसंहिता, पदपाठ · अध्याय 9.2
॥17॥.
-र्व्_6:7।18-
(र्व्_9,2)
पवस्व । देव-वीः । अति । पवित्रम् । सोम । रंह्या । इन्द्रम् । इन्दो इति । वृषा । आ । विश
आ । वच्यस्व । महि । प्सरः । वृषा । इन्दो इति । द्युम्नवत्-तमः । आ । योनिम् । धर्णसिः । सदः
अधुक्षत । प्रियम् । मधु । धारा । सुतस्य । वेधसः । अपः । वसिष्ट । सु-क्रतुः
महान्तम् । त्वा । महीः । अनु । आपः । अर्षन्ति । सिन्धवः । यत् । गोभिः । वासयिष्यसे
समुद्रः । अप्-सु । ममृजे । विष्टम्भः । धरुणः । दिवः । सोमः । पवित्रे । अस्म-युः
॥18॥.
-र्व्_6:7।19-
अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । न । दर्शतः । सम् । सूर्येण । रोचते
गिरः । ते । इन्दो इति । ओजसा । मर्मृज्यन्ते । अपस्युवः । याभिः । मदाय । शुम्भसे
तम् । त्वा । मदाय । घृष्वये । ओं इति । लोक-कृत्नुम् । ईमहे । तव । प्र-शस्तयः । महीः
अस्मभ्यम् । इन्दो इति । इन्द्र-युः । मध्वः । पवस्व । धारया । पर्जन्यः । वृष्टिमान्-इव
गो-साः । इन्दो इति । नृ-साः । असि । अश्व-साः । वाज-साः । उत । आत्मा । यज्ञस्य । पूर्व्यः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0