भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.1

9.1.1

॥15॥.
मन्दल 9
-र्व्_6:7।16-
(र्व्_9,1)
स्वादिष्ठया । मदिष्ठया । पवस्व । सोम । धारया । इन्द्राय । पातवे । सुतः

9.1.2

रक्षः-हा । विश्व-चर्षणिः । अभि । योनिम् । अयः-हतम् । द्रुणा । सध-स्थम् । आ । असदत्

9.1.3

वरिवः-धातमः । भव । मंहिष्ठः । वृत्रहन्-तमः । पर्षि । राधः । मघोनाम्

9.1.4

अभि । अर्ष । महानाम् । देवानाम् । वीतिम् । अन्धसा । अभि । वाजम् । उत । श्रवः

9.1.5

त्वाम् । अच्छ । चरामसि । तत् । इत् । अर्थम् । दिवे-दिवे । इन्दो इति । त्वे इति । नः । आशसः

9.1.6

॥16॥.
-र्व्_6:7।17-
पुनाति । ते । परि-स्रुतम् । सोमम् । सूर्यस्य । दुहिता । वारेण । शश्वता । तना

9.1.7

तम् । ईम् । अण्वीः । स-मर्ये । आ । गृभ्णन्ति । योषणः । दश । स्वसारः । पार्ये । दिवि

9.1.8

तम् । ईम् । हिन्वन्ति । अग्रुवः । धमन्ति । बाकुरम् । दृतिम् । त्रि-धातु । वारणम् । मधु

9.1.9

अभि । इमम् । अघ्न्याः । उत । श्रीणन्ति । धेनवः । शिशुम् । सोमम् । इन्द्राय । पातवे

9.1.10

अस्य । इत् । इन्द्रः । मदेषु । आ । विश्वा । वृत्राणि । जिघ्नते । शूरः । मघा । च । मंहते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc