ऋग्वेदसंहिता, पदपाठ · अध्याय 9.3
॥19॥.
-र्व्_6:7।20-
(र्व्_9,3)
एषः । देवः । अमर्त्यः । पर्णवीः-इव । दीयति । अभि । द्रोणानि । आसदम्
एषः । देवः । विपा । कृतः । अति । ह्वरांसि । धावति । पवमानः । अदाभ्यः
एषः । देवः । विपन्यु-भिः । पवमानः । ऋतयु-भिः । हरिः । वाजाय । मृज्यते
एषः । विश्वानि । वार्या । शूरः । यन्-इव । सत्व-भिः । पवमानः । सिसासति
एषः । देवः । रथर्यति । पवमानः । दशस्यति । आविः । कृणोति । वग्वनुम्
॥20॥.
-र्व्_6:7।21-
एषः । विप्रैः । अभि-स्तुतः । अपः । देवः । वि । गाहते । दधत् । रत्नानि । दाशुषे
एषः । दिवम् । वि । धावति । तिरः । रजांसि । धारया । पवमानः । कनिक्रदत्
एषः । दिवम् । वि । आ । असरत् । तिरः । रजांसि । अस्पृतः । पवमानः । सु-अध्वरः
एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवित्रे । अषर्ति
एषः । ओं इति । स्यः । पुरु-व्रतः । जज्ञानः । जनयन् । इषः । धारया । पवते । सुतः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0