ऋग्वेदसंहिता, पदपाठ · अध्याय 9.15
॥4॥.
-र्व्_6:8।5-
(र्व्_9,15)
एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशु-भिः । गच्छन् । इन्द्रस्य । निः-कृतम्
एषः । पुरु । धियायते । बृहते । देव-तातये । यत्र । अमृतासः । आसते
एषः । हितः । वि । नीयते । अन्तरिति । शुभ्र-वता । पथा । यदि । तुञ्जन्ति । भूर्णयः
एषः । शृङ्गाणि । दोधुवत् । शिशीते । यूथ्यः । वृषा । नृम्णा । दधानः । ओजसा
एषः । रुक्मि-भिः । ईयते । वाजी । शुभ्रेभिः । अंशु-भिः । पतिः । सिन्धूनाम् । भवन्
एषः । वसूनि । पिब्दना । परुषा । ययि-वान् । अति । अव । शादेषु । गच्छति
एतम् । मृजन्ति । मर्ज्यम् । उप । द्रोणेषु । आयवः । प्र-चक्राणम् । महीः । इषः
एतम् । ओं इति । त्यम् । दश । क्षिपः । मृजन्ति । सप्त । धीतयः । सु-आयुधम् । मदिन्-तमम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0