भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.16

9.16.1

॥5॥.
-र्व्_6:8।6-
(र्व्_9,16)
प्र । ते । सोतारः । ओण्योः । रसम् । मदाय । घृष्वये । सर्गः । न । तक्ति । एतशः

9.16.2

क्रत्वा । दक्षस्य । रथ्यम् । अपः । वसानम् । अन्धसा । गो-साम् । अण्वेषु । सश्चिम

9.16.3

अनप्तम् । अप्-सु । दुस्तरम् । सोमम् । पवित्रे । आ । सृज । पुनीहि । इन्द्राय । पातवे

9.16.4

प्र । पुनानस्य । चेतसा । सोमः । पवित्रे । अर्षति । क्रत्वा । सध-स्थम् । आ । असदत्

9.16.5

प्र । त्वा । नमः-भिः । इन्दवः । इन्द्र । सोमाः । असृक्षत । महे । भराय । कारिणः

9.16.6

पुनानः । रूपे । अव्यव्ये । विश्वाः । अर्षन् । अभि । श्रियः । शूरः । न । गोषु । तिष्ठति

9.16.7

दिवः । न । सानु । पिप्युषी । धारा । सुतस्य । वेधसः । वृथा । पवित्रे । अर्षति

9.16.8

त्वम् । सोम । विपः-चितम् । तना । पुनानः । आयुषु । अव्यः । वारम् । वि । धावसि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc