ऋग्वेदसंहिता, पदपाठ · अध्याय 9.14
॥2॥.
-र्व्_6:8।3-
(र्व्_9,14)
परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारम् । बिभ्रत् । पुरु-स्पृहम्
गिरा । यदि । स-बन्धवः । पञ्च । व्राताः । अपस्यवः । परि-कृण्वन्ति । धर्णसिम्
आत् । अस्य । शुष्मिणः । रसे । विश्वे । देवाः । अमत्सत । यदि । गोभिः । वसायते
नि-रिणानः । वि । धावति । जहत् । शर्याणि । तान्वा । अत्र । सम् । जिघ्रते । युजा
नप्तीभिः । यः । विवस्वतः । शुभ्रः । न । ममृजे । युवा । गाः । कृण्वानः । न । निः-निजम्
॥3॥.
-र्व्_6:8।4-
अति । श्रिती । तिरश्चता । गव्या । जिगाति । अण्व्या । वग्नुम् । इयर्ति । यम् । विदे
अभि । क्षिपः । सम् । अग्मत । मर्जयन्तीः । इषः । पतिम् । पृष्ठा । गृभ्णत । वाजिनः
परि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा । वसूनि । याहि । अस्म-युः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0