भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.114

9.114.1

॥27॥.
-र्व्_7:5।28-
(र्व्_9,114)
यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् । तम् । आहुः । सु-प्रजाः । इति । यः । ते । सोम । अविन्धत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव

9.114.2

ऋषे । मन्त्र-कृताम् । स्तोमैः । कश्यप । उत्-वर्धयन् । गिरः । सोमम् । नमस्य । राजानम् । यः । जज्ञे । वीरुधाम् । पतिः । इन्द्राय । इन्दो इति । परि । स्रव

9.114.3

सप्त । दिशः । नानासूर्याः । सप्त । होतारः । ऋत्विजः । देवाः । आदित्याः । ये । सप्त । तेभिः । सोम । अभि । रक्ष । नः । इन्द्राय । इन्दो इति । परि । स्रव

9.114.4

यत् । ते । राजन् । शृतम् । हविः । तेन । सोम । अभि । रक्ष । नः । अराति-वा । मा । नः । तारीत् । मो इति । च । नः । किम् । चन । आममत् । इन्द्राय । इन्दो इति । परि । स्रव

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc