भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.113

9.113.1

॥25॥.
-र्व्_7:5।26-
(र्व्_9,113)
शर्यणावति । सोमम् । इन्द्रः । पिबतु । वृत्र-हा । बलम् । दधानः । आत्मनि । करिष्यन् । वीर्यम् । महत् । इन्द्राय । इन्दो इति । परि । स्रव

9.113.2

आ । पवस्व । दिशाम् । पते । आर्जीकात् । सोम । मीढवः । ऋत-वाकेन । सत्येन । श्रद्धया । तपसा । सुतः । इन्द्राय । इन्दो इति । परि । स्रव

9.113.3

पर्जन्य-वृद्धम् । महिषम् । तम् । सूर्यस्य । दुहिता । आ । अभरत् । तम् । गन्धर्वाः । प्रति । अगृभ्णन् । तम् । सोमे । रसम् । आ । दधुः । इन्द्राय । इन्दो इति । परि । स्रव

9.113.4

ऋतम् । वदन् । ऋत-द्युम्न । सत्यम् । वदन् । सत्य-कर्मन् । श्रद्धाम् । वदन् । सोम । राजन् । धात्रा । सोम । परि-कृत । इन्द्राय । इन्दो इति । परि । स्रव

9.113.5

सत्यम्-उग्रस्य । बृहतः । सम् । स्रवन्ति । सम्-स्रवाः । सम् । यन्ति । रसिनः । रसाः । पुनानः । ब्रह्मणा । हरे । इन्द्राय । इन्दो इति । परि । स्रव

9.113.6

॥26॥.
-र्व्_7:5।27-
यत्र । ब्रह्मा । पवमान । छन्दस्याम् । वाचम् । वदन् । ग्राव्णा । सोमे । महीयते । सोमेन । आनन्दम् । जनयन् । इन्द्राय । इन्दो इति । परि । स्रव

9.113.7

यत्र । ज्योतिः । अजस्रम् । यस्मिन् । लोके । स्वः । हितम् । तस्मिन् । माम् । धेहि । पवमान । अमृते । लोके । अक्षिते । इन्द्राय । इन्दो इति । परि । स्रव

9.113.8

यत्र । राजा । वैवस्वतः । यत्र । अव-रोधनम् । दिवः । यत्र । अमूः । यह्वतीः । आपः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव

9.113.9

यत्र । अनु-कामम् । चरणम् । त्रि-नाके । त्रि-दिवे । दिवः । लोकाः । यत्र । ज्योतिष्मन्तः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव

9.113.10

यत्र । कामाः । नि-कामाः । च । यत्र । ब्रध्नस्य । विष्टपम् । स्वधा । च । यत्र । तृप्तिः । च । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव

9.113.11

यत्र । आनन्दाः । च । मोदाः । च । मुदः । प्र-मुदः । आसते । कामस्य । यत्र । आप्ताः । कामाः । तत्र । माम् । अमृतम् । कृधि । इन्द्राय । इन्दो इति । परि । स्रव

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc