भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 10.1

10.1.1

॥28॥.
मन्दल 10
-र्व्_7:5।29-
(र्व्_10,1)
अग्ने । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निः-जगन्वान् । तमसः । ज्योतिषा । आ । अगात् । अग्निः । भानुना । रुशता । सु-अङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः

10.1.2

सः । जातः । गर्भः । असि । रोदस्योः । अग्ने । चारुः । वि-भृतः । ओषधीषु । चित्रः । शिशुः । परि । तमांसि । अक्तून् । प्र । मातृ-भ्यः । अधि । कनिक्रदत् । गाः

10.1.3

विष्णुः । इत्था । परमम् । अस्य । विद्वान् । जातः । बृहन् । अभि । पाति । तृतीयम् । आसा । यत् । अस्य । पयः । अक्रत । स्वम् । स-चेतसः । अभि । अर्चन्ति । अत्र

10.1.4

अतः । ओं इति । त्वा । पितु-भृतः । जनित्रीः । अन्न-वृधम् । प्रति । चरन्ति । अन्नैः । ताः । ईम् । प्रति । एषि । पुनः । अन्य-रूपाः । असि । त्वम् । विक्षु । मानुषीषु । होता

10.1.5

होतारम् । चित्र-रथम् । अध्वरस्य । यज्ञस्य-यज्ञस्य । केतुम् । रुशन्तम् । प्रति-अर्धिम् । देवस्य-देवस्य । मह्ना । श्रिया । त्वम् । अग्निम् । अतिथिम् । जनानाम्

10.1.6

सः । तु । वस्त्राणि । अध । पेशनानि । वसानः । अग्निः । नाभा । पृथिव्याः । अरुषः । जातः । पदे । इळायाः । पुरः-हितः । राजन् । यक्षि । इह । देवान्

10.1.7

आ । हि । द्यावापृथिवी इति । अग्ने । उभे इति । सदा । पुत्रः । न । मातरा । ततन्थ । प्र । याहि । अच्छ । उशतः । यविष्ठ । अथ । आ । वह । सहस्य । इह । देवान्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc