ऋग्वेदसंहिता, पदपाठ · अध्याय 9.112
॥24॥.
-र्व्_7:5।25-
(र्व्_9,112)
नानानम् । वै । ओं इति । नः । धियः । वि । व्रतानि । जनानाम् । तक्षा । रिष्टम् । रुतम् । भिषक् । ब्रह्मा । सुन्वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव
जरतीभिः । ओषधीभिः । पर्णेभिः । शकुनानाम् । कार्मारः । अश्म-भिः । द्यु-भिः । हिरण्य-वन्तम् । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव
कारुः । अहम् । ततः । भिषक् । उपल-प्रक्षिणी । नना । नानाधियः । वसु-यवः । अनु । गाः-इव । तस्थिम । इन्द्राय । इन्दो इति । परि । स्रव
अश्वः । वोळ्हा । सुखम् । रथम् । हसनाम् । उप-मन्त्रिणः । शेपः । रोमण्-वन्तौ । भेदौ । वाः । इत् । मण्डूकः । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0