भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.111

9.111.1

॥23॥.
-र्व्_7:5।24-
(र्व्_9,111)
अया । रुचा । हरिण्या । पुनानः । विश्वा । द्वेषांसि । तरति । स्वयुग्व-भिः । सूरः । न । स्वयुग्व-भिः । धारा । सुतस्य । रोचते । पुनानः । अरुषः । हरिः । विश्वा । यत् । रूपा । परि-याति । ऋक्व-भिः । सप्त-आस्येभिः । ऋक्व-भिः

9.111.2

त्वम् । त्यत् । पणीनाम् । विदः । वसु । सम् । मातृ-भिः । मर्जयसि । स्वे । आ । दमे । ऋतस्य । धीति-भिः । दमे । परावतः । न । साम । तत् । यत्र । रणन्ति । धीतयः । त्रिधातु-भिः । अरुषीभिः । वयः । दधे । रोचमानः । वयः । दधे

9.111.3

पूर्वाम् । अनु । प्र-दिशम् । याति । चेकितत् । सम् । रश्मि-भिः । यतते । दर्शतः । रथः । दैव्यः । दर्शतः । रथः । अग्मन् । उक्थानि । पैंस्या । इन्द्रम् । जैत्राय । हर्षयन् । वज्रः । च । यत् । भवथः । अनप-च्युता । समत्-सु । अनप-च्युता

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc