भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.110

9.110.1

॥21॥.
-र्व्_7:5।22-
(र्व्_9,110)
परि । ओं इति । सु । प्र । धन्व । वाज-सातये । परि । वृत्राणि । सक्षणिः । द्विषः । तरध्यै । ऋण-याः । नः । ईयसे

9.110.2

अनु । हि । त्वा । सुतम् । सोम । मदामसि । महे । समर्य-राज्ये । वाजान् । अभि । पवमान । प्र । गाहसे

9.110.3

अजीजनः । हि । पवमान । सूर्यम् । वि-धारे । शक्मना । पयः । गो-जीरया । रंहमाणः । पुरन्ध्या

9.110.4

अजीजनः । अमृत । मर्त्येषु । आ । ऋतस्य । धर्मन् । अमृतस्य । चारुणः । सदा । असरः । वाजम् । अच्छ । सनिस्यदत्

9.110.5

अभि-अभि । हि । श्रवसा । ततर्दिथ । उत्सम् । न । कम् । चित् । जन-पानम् । अक्षितम् । शर्याभिः । न । भरमाणः । गभस्त्योः

9.110.6

आत् । ईम् । के । चित् । पश्यमानासः । आप्यम् । वसु-रुचः । दिव्याः । अभि । अनूषत । वारम् । न । देवः । सविता । वि । ऊर्णुते

9.110.7

॥22॥.
-र्व्_7:5।23-
त्वे इति । सोम । प्रथमाः । वृक्त-बर्हिषः । महे । वाजाय । श्रवसे । धियम् । दधुः । सः । त्वम् । नः । वीर । वीर्याय । चोदय

9.110.8

दिवः । पीयूषम् । पूर्व्यम् । यत् । उक्थ्यम् । महः । गाहात् । दिवः । आ । निः । अधुक्षत । इन्द्रम् । अभि । जायमानम् । सम् । अस्वरन्

9.110.9

अध । यत् । इमे इति । पवमान । रोदसी इति । इमा । च । विश्वा । भुवना । अभि । जज्मना । यूथे । न । निः-स्थाः । वृषभः । वि । तिष्ठसे

9.110.10

सोमः । पुनानः । अव्यये । वारे । शिशुः । न । क्रीळन् । पवमानः । अक्षारिति । सहस्र-धारः । शत-वाजः । इन्दुः

9.110.11

एषः । पुनानः । मधु-मान् । ऋत-वा । इन्द्राय । इन्दुः । पवते । स्वादुः । ऊर्मिः । वाज-सनिः । वरिवः-वित् । वयः-धाः

9.110.12

सः । पवस्व । सहमानः । पृतन्यून् । सेधन् । रक्षांसि । अप । दुः-गहाणि । सु-आयुधः । ससह्वान् । सोम । शत्रून्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc