भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.109

9.109.1

॥19॥.
-र्व्_7:5।20-
(र्व्_9,109)
परि । प्र । धन्व । इन्द्राय । सोम । स्वादुः । मित्राय । पूष्णे । भगाय

9.109.2

इन्द्रः । ते । सोम । सुतस्य । पेयाः । क्रत्वे । दक्षाय । विश्वे । च । देवाः

9.109.3

एव । अमृताय । महे । क्षयाय । सः । शुक्रः । अर्ष । दिव्यः । पीयूषः

9.109.4

पवस्व । सोम । महान् । समुद्रः । पिता । देवानाम् । विश्वा । अभि । धाम

9.109.5

शुक्रः । पवस्व । देवेभ्यः । सोम । दिवे । पृथिव्यै । शम् । च । प्र-जायै

9.109.6

दिवः । धर्ता । असि । शुक्रः । पीयूषः । सत्ये । वि-धर्मन् । वाजी । पवस्व

9.109.7

पवस्व । सोम । द्युम्नी । सु-धारः । महाम् । अवीनाम् । अनु । पूर्व्यः

9.109.8

नृ-भिः । येमानः । जज्ञानः । पूतः । क्षरत् । विश्वानि । मन्द्रः । स्वः-वित्

9.109.9

इन्दुः । पुनानः । प्र-जाम् । उराणः । करत् । विश्वानि । द्रविणानि । नः

9.109.10

पवस्व । सोम । क्रत्वे । दक्षाय । अश्वः । न । निक्तः । वाजी । धनाय

9.109.11

॥20॥.
-र्व्_7:5।21-
तम् । ते । सोतारः । रसम् । मदाय । पुनन्ति । सोमम् । महे । द्युम्नाय

9.109.12

शिशुम् । जज्ञानम् । हरिम् । मृजन्ति । पवित्रे । सोमम् । देवेभ्यः । इन्दुम्

9.109.13

इन्दुः । पविष्ट । चारुः । मदाय । अपाम् । उप-स्थे । कविः । भगाय

9.109.14

बिभर्ति । चारु । इन्द्रस्य । नाम । येन । विश्वानि । वृत्रा । जघान

9.109.15

पिबन्ति । अस्य । विश्वे । देवासः । गोभिः । श्रीतस्य । नृ-भिः । सुतस्य

9.109.16

प्र । सुवानः । अक्षारिति । सहस्र-धारः । तिरः । पवित्रम् । वि । वारम् । अव्यम्

9.109.17

सः । वाजी । अक्षारिति । सहस्र-रेताः । अत्-भिः । मृजानः । गोभिः । श्रीणानः

9.109.18

प्र । सोम । याहि । इन्द्रस्य । कुक्षा । नृ-भिः । येमानः । अद्रि-भिः । सुतः

9.109.19

असर्जि । वाजी । तिरः । पवित्रम् । इन्द्राय । सोमः । सहस्र-धारः

9.109.20

अञ्जन्ति । एनम् । मध्वः । रसेन । इन्द्राय । वृष्णे । इन्दुम् । मदाय

9.109.21

देवेभ्यः । त्वा । वृथा । पाजसे । अपः । वसानम् । हरिम् । मृजन्ति

9.109.22

इन्दुः । इन्द्राय । तोशते । नि । तोशते । श्रीणन् । उग्रः । रिणन् । अपः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc