भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.11

9.11.1

॥35॥.
-र्व्_6:7।36-
(र्व्_9,11)
उप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते

9.11.2

अभि । ते । मधुना । पयः । अथर्वाणः । अशिश्रयुः । देवम् । देवाय । देव-यु

9.11.3

सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते । शम् । राजन् । ओषधीभ्यः

9.11.4

बभ्रवे । नु । स्व-तवसे । अरुणाय । दिवि-स्पृशे । सोमाय । गाथम् । अर्चत

9.11.5

हस्त-च्युतेभिः । अद्रि-भिः । सुतम् । सोमम् । पुनीतन । मधौ । आ । धावत । मधु

9.11.6

॥36॥.
-र्व्_6:7।37-
नमसा । इत् । उप । सीदत । दध्ना । इत् । अभि । श्रीणीतन । इन्दुम् । इन्द्रे । दधातन

9.11.7

अमित्र-हा । वि-चर्षणिः । पवस्व । सोम । शम् । गवे । देवेभ्यः । अनुकाम-कृत्

9.11.8

इन्द्राय । सोम । पातवे । मदाय । परि । सिच्यसे । मनः-चित् । मनसः । पतिः

9.11.9

पवमान । सु-वीर्यम् । रयिम् । सोम । रिरीहि । नः । इन्दो इति । इन्द्रेण । नः । युजा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc