ऋग्वेदसंहिता, पदपाठ · अध्याय 9.12
॥37॥.
-र्व्_6:7।38-
(र्व्_9,12)
सोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । सदने । इन्द्राय । मधुमत्-तमाः
अभि । विप्राः । अनूषत । गावः । वत्सम् । न । मातरः । इन्द्रम् । सोमस्य । पीतये
मद-च्युत् । क्षेति । सदने । सिन्धोः । ऊर्मा । विपः-चित् । सोमः । गौरी इति । अधि । श्रितः
दिवः । नाभा । वि-चक्षणः । अव्यः । वारे । महीयते । सोमः । यः । सु-क्रतुः । कविः
यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आहितः । तम् । इन्दुः । परि । सस्वजे
॥38॥.
-र्व्_6:7।39-
प्र । वाचम् । इन्दुः । इष्यति । समुद्रस्य । अधि । विष्टपि । जिन्वन् । कोशम् । मधु-श्चुतम्
नित्य-स्तोत्रः । वनस्पतिः । धीनाम् । अन्तरिति । सबः-दुघः । हिन्वानः । मानुषा । युगा
अभि । प्रिया । दिवः । पदा । सोमः । हिन्वानः । अर्षति । विप्रस्य । धारया । कविः
आ । पवमान । धारय । रयिम् । सहस्र-वर्चसम् । अस्मे इति । इन्दो इति । सु-आभुवम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0