भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.108

9.108.1

॥16॥.
-र्व्_7:5।17-
(र्व्_9,108)
पवस्व । मधुमत्-तमः । इन्द्राय । सोम । क्रतुवित्-तमः । मदः । महि । द्युक्ष-तमः । मदः

9.108.2

यस्य । ते । पीत्वा । वृषभः । वृष-यते । अस्य । पीता । स्वः-विदः । सः । सु-प्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः

9.108.3

त्वम् । हि । अङ्ग । दैव्या । पवमान । जनिमानि । द्युमत्-तमः । अमृत-त्वाय । घोषयः

9.108.4

येन । नव-ग्वः । दध्यङ् । अप-ऊर्णुते । येन । विप्रासः । आपिरे । देवानाम् । सुम्ने । अमृतस्य । चारुणः । येन । श्रवांसि । आनशुः

9.108.5

एषः । स्यः । धारया । सुतः । अव्यः । वारेभिः । पवते । मदिन्-तमः । क्रीळन् । ऊर्मिः । अपाम्-इव

9.108.6

॥17॥.
-र्व्_7:5।18-
यः । उस्रियाः । अप्याः । अन्तः । अश्मनः । निः । गाः । अकृण्तत् । ओजसा । अभि । व्रजम् । तत्निषे । गव्यम् । अश्व्यम् । वर्मी-इव । धृष्णो इति । आ । रुज

9.108.7

आ । सोत । परि । सिञ्चत । अश्वम् । न । स्तोमम् । अप्-तुरम् । रजः-तुरम् । वन-क्रक्षम् । उद-प्रुतम्

9.108.8

सहस्र-धारम् । वृषभम् । पयः-वृधम् । प्रियम् । देवाय । जन्मने । ऋतेन । यः । ऋत-जातः । वि-ववृधे । राजा । देवः । ऋतम् । बृहत्

9.108.9

अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देव-युः । वि । कोशम् । मध्यमम् । युव

9.108.10

आ । वच्यस्व । सु-दक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपाम् । जिन्व । गो-इष्टये । धियः

9.108.11

॥18॥.
-र्व्_7:5।19-
एतम् । ओं इति । त्यम् । मद-च्युतम् । सहस्र-धारम् । वृषभम् । दिवः । दुहुः । विश्वा । वसूनि । बिभ्रतम्

9.108.12

वृषा । वि । जज्ञे । जनयन् । अमर्त्यः । प्र-तपन् । ज्योतिषा । तमः । सः । सु-स्तुतः । कवि-भिः । निः-निजम् । दधे । त्रि-धातु । अस्य । दंससा

9.108.13

सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । यः । इळानाम् । सोमः । यः । सु-क्षितीनाम्

9.108.14

यस्य । नः । इन्द्रः । पिबात् । यस्य । मरुतः । यस्य । वा । अर्यमणा । भगः । आ । येन । मित्रावरुणा । करामहे । आ । इन्द्रम् । अवसे । महे

9.108.15

इन्द्राय । सोम । पातवे । नृ-भिः । यतः । सु-आयुधः । मदिन्-तमः । पवस्व । मधुमत्-तमः

9.108.16

इन्द्रस्य । हार्दि । सोम-धानम् । आ । विश । समुद्रम्-इव । सिन्धवः । जुष्टः । मित्राय । वरुणाय । वायवे । दिवः । विष्टम्भः । उत्-तमः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc