ऋग्वेदसंहिता, पदपाठ · अध्याय 9.107
॥11॥.
-र्व्_7:5।12-
(र्व्_9,107)
परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्-तमम् । हविः । दधन्वान् । यः । नर्यः । अप्-सु । अन्तः । आ । सुसाव । सोमम् । अद्रि-भिः
नूनम् । पुनानः । अवि-भिः । परि । स्रव । अदब्धः । सुरभिम्-तरः । सुते । चित् । त्वा । अप्-सु । मादामः । अन्धसा । श्रीणन्तः । गोभिः । उत्-तरम्
परि । सुवानः । चक्षसे । देव-मादनः । क्रतुः । इन्दुः । वि-चक्षणः
पुनानः । सोम । धारया । अपः । वसानः । अर्षसि । आ । रत्न-धाः । योनिम् । ऋतस्य । सीदसि । उत्सः । देव । हिरण्ययः
दुहानः । ऊधः । दिव्यम् । मधु । प्रियम् । प्रत्नम् । सध-स्थम् । आ । असदत् । आपृच्छ्यम् । धरुणम् । वाजी । अर्षति । नृ-भिः । धूतः । वि-चक्षणः
॥12॥.
-र्व्_7:5।13-
पुनानः । सोम । जागृविः । अव्यः । वारे । परि । प्रियः । त्वम् । विप्रः । अभवः । अङ्गिरः-तमः । मध्वा । यज्ञम् । मिमिक्ष । नः
सोमः । मीढवान् । पवते । गातुवित्-तमः । ऋषिः । विप्रः । वि-चक्षणः । त्वम् । कविः । अभवः । देव-वीतमः । आ । सूर्यम् । रोहयः । दिवि
सोमः । ओं इति । सुवानः । सोतृ-भिः । अधि । स्नु-भिः । अवीनाम् । अश्वया-इव । हरिता । याति । धारया । मन्द्रया । याति । धारया
अनूपे । गो-मान् । गोभिः । अक्षारिति । सोमः । दुग्धाभिः । अक्षारिति । समुद्रम् । न । सम्-वरणानि । अग्मन् । मन्दी । मदाय । तोशते
आ । सोम । सुवानः । अद्रि-भिः । तिरः । वाराणि । अव्यया । जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दधिषे
॥13॥.
-र्व्_7:5।14-
सः । ममृजे । तिरः । अण्वानि । मेष्यः । मीळ्हे । सप्तिः । न । वाज-युः । अनु-माद्यः । पवमानः । मनीषि-भिः । सोमः । विप्रेभिः । ऋक्व-भिः
प्र । सोम । देव-वीतये । सिन्धुः । न । पिप्ये । अर्णसा । अंशोः । पयसा । मदि रः । न । जागृविः । अच्छा । कोशम् । मधु-श्चुतम्
आ । हर्यतः । अर्जुने । अत्के । अव्यत । प्रियः । सूनुः । न । मर्ज्यः । तम् । ईम् । हिन्वन्ति । अपसः । यथा । रथम् । नदीषु । आ । गभस्त्योः
अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । समुद्रस्य । अधि । विष्टपि । मनीषिणः । मत्सरासः । स्वः-विदः
तरत् । समुद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् । अर्षत् । मित्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत्
॥14॥.
-र्व्_7:5।15-
नृ-भिः । येमानः । हर्यतः । वि-चक्षणः । राजा । देवः । समुद्रियः
इन्द्राय । पवते । मदः । सोमः । मरुत्वते । सुतः । सहस्र-धारः । अति । अव्यम् । अर्षति । तम् । ईम् इति । मृजन्ति । आयवः
पुनानः । चमू इति । जनयन् । मतिम् । कविः । सोमः । देवेषु । रण्यति । अपः । वसानः । परि । गोभिः । उत्-तरः । सीदन् । वनेषु । अव्यत
तव । अहम् । सोम । ररण । सख्ये । इन्दो इति । दिवे-दिवे । पुरूणि । बभ्रो इति । नि । चरन्ति । माम् । अव । परि-धीन् । अति । तान् । इहि
उत । अहम् । नक्तम् । उत । सोम । ते । दिवा । सख्याय । बभ्रो इति । ऊधनि । घृणा । तपन्तम् । अति । सूर्यम् । परः । शकुनाः-इव । पप्तिम
॥15॥.
-र्व्_7:5।16-
मृज्यमानः । सु-हस्त्य । समुद्रे । वाचम् । इन्वसि । रयिम् । पिशङ्गम् । बहुलम् । पुरु-स्पृहम् । पवमान । अभि । अर्षसि
मृजानः । वारे । पवमानः । अव्यये । वृषा । अव । चक्रदः । वने । देवानाम् । सोम । पवमान । निः-कृतम् । गोभिः । अञ्जानः । अर्षसि
पवस्व । वाज-सातये । अभि । विश्वानि । काव्या । त्वम् । समुद्रम् । प्रथमः । वि । धारयः । देवेभ्यः । सोम । मत्सरः
सः । तु । पवस्व । परि । पार्थिवम् । रजः । दिव्या । च । सोम । धर्म-भिः । त्वाम् । विप्रासः । मति-भिः । वि-चक्षण । शुभ्रम् । हिन्वन्ति । धीति-भिः
पवमानाः । असृक्षत । पवित्रम् । अति । धारया । मरुत्वन्तः । मत्सराः । इन्द्रियाः । हयाः । मेधाम् । अभि । प्रयांसि । च
अपः । वसानः । परि । कोशम् । अर्षति । इन्दुः । हियानः । सोतृ-भिः । जनयन् । ज्योतिः । मन्दनाः । अवीवशत् । गाः । कृण्वानः । न । निः-निजम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0