भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.106

9.106.1

॥8॥.
-र्व्_7:5।9-
(र्व्_9,106)
इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टी । जातासः । इन्दवः । स्वः-विदः

9.106.2

अयम् । भराय । सानसिः । इन्द्राय । पवते । सुतः । सोमः । जैत्रस्य । चेतति । यथा । विदे

9.106.3

अस्य । इत् । इन्द्रः । मदेषु । आ । ग्राभम् । गृभ्णीत । सानसिम् । वज्रम् । च । वृषणम् । भरत् । सम् । अप्सु-जित्

9.106.4

प्र । धन्व । सोम । जागृविः । इन्द्राय । इन्दो इति । परि । स्रव । द्यु-मन्तम् । शुष्मम् । आ । भर । स्वः-विदम्

9.106.5

इन्द्राय । वृषणम् । मदम् । पवस्व । विश्व-दर्शतः । सहस्र-यामा । पथि-कृत् । वि-चक्षणः

9.106.6

॥9॥.
-र्व्_7:5।10-
अस्मभ्यम् । गातुवित्-तमः । देवेभ्यः । मधुमत्-तमः । सहस्रम् । याहि । पथि-भिः । कनिक्रदत्

9.106.7

पवस्व । देव-वीतये । इन्दो इति । धाराभिः । ओजसा । आ । कलशम् । मधु-मान् । सोम । नः । सदः

9.106.8

तव । द्रप्साः । उद-प्रुतः । इन्द्रम् । मदाय । ववृधुः । त्वाम् । देवासः । अमृताय । कम् । पपुः

9.106.9

आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् । वृष्टि-द्यावः । रीति-आपः । स्वः-विदः

9.106.10

सोमः । पुनानः । ऊर्मिणा । अव्यः । वारम् । वि । धावति । अग्रे । वाचः । पवमानः । कनिक्रदत्

9.106.11

॥10॥.
-र्व्_7:5।11-
धीभिः । हिन्वन्ति । वाजिनम् । वने । क्रीळन्तम् । अति-अविम् । अभि । त्रि-पृष्ठम् । मतयः । सम् । अस्वरन्

9.106.12

असर्जि । कलशान् । अभि । मीळ्हे । सप्तिः । न । वाज-युः । पुनानः । वाचम् । जनयन् । असिस्यदत्

9.106.13

पवते । हर्यतः । हरिः । अति । ह्वरांसि । रंह्या । अभि-अर्षन् । स्तोतृ-भ्यः । वीर-वत् । यशः

9.106.14

अया । पवस्व । देव-युः । मधोः । धाराः । असृक्षत । रेभन् । पवित्रम् । परि । एषि । विश्वतः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc