ऋग्वेदसंहिता, पदपाठ · अध्याय 9.105
॥7॥.
-र्व्_7:5।8-
(र्व्_9,105)
तम् । वः । सखायः । मदाय । पुनानम् । अभि । गायत । शिशुम् । न । यज्ञैः । स्वदयन्त । गूर्ति-भिः
सम् । वत्सः-इव । मातृ-भिः । इन्दुः । हिन्वानः । अज्यते । देव-अवीः । मदः । मति-भिः । परि-कृतः
अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः । मधुमत्-तमः । सुतः
गो-मत् । नः । इन्दो इति । अश्व-वत् । सुतः । सु-दक्ष । धन्व । शुचिम् । ते । वर्णम् । अधि । गोषु । दीधरम्
सः । नः । हरीणाम् । पते । इन्दो इति । देवप्सरः-तमः । सखा-इव । सख्ये । नर्यः । रुचे । भव
सनेमि । त्वम् । अस्मत् । आ । अदेवम् । कम् । चित् । अत्रिणम् । साह्वान् । इन्दो इति । परि । बाधः । अप । द्वयुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0