ऋग्वेदसंहिता, पदपाठ · अध्याय 9.104
॥6॥.
-र्व्_7:5।7-
(र्व्_9,104)
सखायः । आ । नि । सीदत । पुनानाय । प्र । गायत । शिशुम् । न । यज्ञैः । परि । भूषत । श्रिये
सम् । ईम् इति । वत्सम् । न । मातृ-भिः । सृजत । गय-साधनम् । देव-अव्यम् । मदम् । अभि । द्वि-शवसम्
पुनात । दक्ष-साधनम् । यथा । शर्धाय । वीतये । यथा । मित्राय । वरुणाय । शम्-तमः
अस्मभ्यम् । त्वा । वसु-विदम् । अभि । वाणीः । अनूषत । गोभिः । ते । वर्णम् । अभि । वासयामसि
सः । नः । मदानाम् । पते । इन्दो इति । देव-प्सराः । असि । सखा-इव । सख्ये । गातुवित्-तमः । भव
सनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् । अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0