भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 9.103

9.103.1

॥5॥.
-र्व्_7:5।6-
(र्व्_9,103)
प्र । पुनानाय । वेधसे । सोमाय । वचः । उत्-यतम् । भृतिम् । न । भर । मति-भिः । जुजोषते

9.103.2

परि । वाराणि । अव्यया । गोभिः । अञ्जानः । अर्षति । त्री । सध-स्था । पुनानः । कृणुते । हरिः

9.103.3

परि । कोशम् । मधु-श्चुतम् । अव्यये । वारे । अर्षति । अभि । वाणीः । ऋषीणाम् । सप्त । नूषत

9.103.4

परि । नेता । मतीनाम् । विश्व-देवः । अदाभ्यः । सोमः । पुनानः । चम्वोः । विशत् । हरिः

9.103.5

परि । दैवीः । अनु । स्वधाः । इन्द्रेण । याहि । स-रथम् । पुनानः । वाघत् । वाघत्-भिः । अमर्त्यः

9.103.6

परि । सप्तिः । न । वाज-युः । देवः । देवेभ्यः । सुतः । वि-आनशिः । पवमानः । वि । धावति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc