ऋग्वेदसंहिता, पदपाठ · अध्याय 9.102
॥3॥.
-र्व्_7:5।4-
(र्व्_9,102)
क्राणा । शिशुः । महीनाम् । हिन्वन् । ऋतस्य । दीधितिम् । विश्वा । परि । प्रिया । भुवत् । अध । द्विता
उप । त्रितस्य । पाष्योः । अभक्त । यत् । गुहा । पदम् । यज्ञस्य । सप्त । धाम-भिः । अध । प्रियम्
त्रीणि । त्रितस्य । धारया । पृष्ठेषु । आ । ईरय । रयिम् । मिमीते । अस्य । योजना । वि । सु-क्रतुः
जज्ञानम् । सप्त । मातरः । वेधाम् । अशासत । श्रिये । अयम् । ध्रुवः । रयीणाम् । चिकेत । यत्
अस्य । व्रते । स-जोषसः । विश्वे । देवासः । अद्रुहः । स्पार्हाः । भवन्ति । रन्तयः । जुषन्त । यत्
॥4॥.
-र्व्_7:5।5-
यम् । ईम् इति । गर्भम् । ऋत-वृधः । दृशे । चारुम् । अजीजनन् । कविम् । मंहिष्ठम् । अध्वरे । पुरु-स्पृहम्
समीचीने इतिसम्-ईचीने । अभि । त्मना । यह्वी । ऋतस्य । मातरा । तन्वानाः । यज्ञम् । आनुषक् । यत् । अञ्जते
क्रत्वा । शुक्रेभिः । अक्ष-भिः । ऋणोः । अप । व्रजम् । दिवः । हिन्वन् । ऋतस्य । दीदितिम् । प्र । अध्वरे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0