ऋग्वेदसंहिता, पदपाठ · अध्याय 9.101
॥28॥.
-र्व्_7:5।1-
(र्व्_9,101)
पुरः-जिती । वः । अन्धसः । सुताय । मादयित्नवे । अप । श्वानम् । श्नथिष्टन । सखायः । दीर्घ-जिह्व्यम्
यः । धारया । पावकया । परि-प्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः
तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया । यज्ञम् । हिन्वन्ति । अद्रि-भिः
सुतासः । मधुमत्-तमाः । सोमाः । इन्द्राय । मन्दिनः । पवित्र-वन्तः । अक्षरन् । देवान् । गच्छन्तु । वः । मदाः
इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसा
॥1॥.
-र्व्_7:5।2-
सहस्र-धारः । पवते । समुद्रः । वाचम्-ईङ्खयः । सोमः । पतिः । रयीणाम् । सखा । इन्द्रस्य । दिवे-दिवे
अयम् । पूषा । रयिः । भगः । सोमः । पुनानः । अर्षति । पतिः । विश्वस्य । भूमनः । वि । अख्यत् । रोदसी इति । उभे इति
सम् । ओं इति । प्रियाः । अनूषत । गावः । मदाय । घृष्वयः । सोमासः । कृण्वते । पथः । पवमानासः । इन्दवः
यः । ओजिष्ठः । तम् । आ । भर । पवमान । श्रवाय्यम् । यः । पञ्च । चर्षणीः । अभि । रयिम् । येन । वनामहै
सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्-तमाः । मित्राः । सुवानाः । अरेपसः । सु-आध्यः । स्वः-विदः
॥2॥.
-र्व्_7:5।3-
सुस्वाणासः । वि । अद्रि-भिः । चितानाः । गोः । अधि । त्वचि । इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसु-विदः
एते । पूताः । विपः-चितः । सोमासः । दधि-आशिरः । सूर्यासः । न । दर्शतासः । जिगत्नवः । ध्रुवाः । घृते
प्र । सुन्वानस्य । अन्धसः । मर्तः । न । वृत । तत् । वचः । अप । श्वानम् । अराधसम् । हत । मखम् । न । भृगवः
आ । जामिः । अत्के । अव्यत । भुजे । न । पुत्रः । ओण्योः । सरत् । जारः । न । योषणाम् । वरः । न । योनिम् । आसदम्
सः । वीरः । दक्ष-साधनः । वि । यः । तस्तम्भ । रोदसी इति । हरिः । पवित्रे । अव्यत । वेधाः । न । योनिम् । आसदम्
अव्यः । वारेभिः । पवते । सोमः । गव्ये । अधि । त्वचि । कनिक्रदत् । वृषा । हरिः । इन्द्रस्य । अभि । एति । निः-कृतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0