ऋग्वेदसंहिता, पदपाठ · अध्याय 8.103
॥12॥.
-र्व्_6:7।13-
(र्व्_8,103)
अदर्शि । गातुवित्-तमः । यस्मिन् । व्रतानि । आदधुः । उपो इति । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्त । नः । गिरः
प्र । दैवः-दासः । अग्निः । देवान् । अच्छ । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । ववृते । तस्थौ । नाकस्य । सानवि
यस्मात् । रेजन्त । कृष्टयः । चर्कृत्यानि । कृण्वतः । सहस्र-साम् । मेधसातौ-इव । त्मना । अग्निम् । धीभिः । सपर्यत
प्र । यम् । राये । निनीषसि । मर्तः । यः । ते । वसो इति । दाशत् । सः । वीरम् । धत्ते । अग्ने । उक्थ-शंसिनम् । त्मना । सहस्र-पोषि णम्
सः । दृळ्हे । चित् । अभि । तृणत्ति । वाजम् । अर्वता । सः । धत्ते । अक्षिति । श्रवः । त्वे इति । देव-त्रा । सदा । पुरुवसो इतिपुरु-वसो । विश्वा । वामानि । धीमहि
॥13॥.
-र्व्_6:7।14-
यः । विश्वा । दयते । वसु । होता । मन्द्रः । जनानाम् । मधोः । न । पात्रा । प्र-थमानि । अस्मै । प्र । स्तोमाः । यन्ति । अग्नये
अश्वम् । न । गीः-भिः । रथ्यम् । सु-दानवः । मर्मृज्यन्ते । देव-यवः । उभे इति । तोके इति । तनये । दस्म । विश्पते । पर्षि । राधः । मघोनाम्
प्र । मंहिष्ठाय । गायत । ऋत-व्ने । बृहते । शुक्र-शोचिषे । उप-स्तुतासः । अग्नये
आ । वंसते । मघ-वा । वीर-वत् । यशः । सम्-इद्धः । द्युम्नी । आहुतः । कुव् इत् । नः । अस्य । सु-मतिः । नवीयसी । अच्छ । वाजेभिः । आगमत्
प्रेष्ठम् । ओं इति । प्रियाणाम् । स्तुहि । आसाव । अतिथिम् । अग्निम् । रथानाम् । यमम्
॥14॥.
-र्व्_6:7।15-
उत्-इता । यः । नि-दिता । वेदिता । वसु । आ । यज्ञियः । ववर्तति । दुस्तराः । यस्य । प्रवणे । न । ऊर्मयः । धिया । वाजम् । सिसासतः
मा । नः । हणीताम् । अतिथिः । वसुः । अग्निः । पुरु-प्रशस्तः । एषः । यः । सु-होता । सु-अध्वरः
मो इति । ते । रिषन् । ये । अच्छोक्ति-भिः । वसो इति । अग्ने । केभिः । चित् । एवैः । कीरिः । चित् । हि । त्वाम् । ईटे । दूत्याय । रात-हव्यः । सु-अध्वरः
आ । अग्ने । याहि । मरुत्-सखा । रुद्रेभिः । सोम-पीतये । सोभर्याः । उप । सु-स्तुति म् । मादयस्व । स्वः-नरे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0