भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.99

8.99.1

॥2॥.
-र्व्_6:7।3-
(र्व्_8,99)
त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः । सः । इन्द्र । स्तोम-वाहसाम् । इह । श्रुधि । उप । स्वसरम् । आ । गहि

8.99.2

मत्स्व । सु-शिप्र । हरि-वः । तत् । ईमहे । त्वे इति । आ । भूषन्ति । वेधसः । तव । श्रवांसि । उप-मानि । उक्थ्या । सुतेषु । इन्द्र । गिर्वणः

8.99.3

श्रायन्तः-इव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जाते । जनमाने । ओजसा । प्रति । भागम् । न । दीधिम

8.99.4

अनर्श-रातिम् । वसु-दाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः । सः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन्

8.99.5

त्वम् । इन्द्र । प्र-तूर्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्ति-हा । जनिता । वि श्व-तूः । असि । त्वम् । तूर्य । तरुष्यतः

8.99.6

अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणी इति । शिशुम् । न । मातरा । विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि

8.99.7

इतः । ऊती । वः । अजरम् । प्र-हेतारम् । अप्र-हितम् । आशुम् । जेतारम् । हेतारम् । रथि-तमम् । अतूर्तम् । तुग्र्य-वृधम्

8.99.8

इष्कर्तारम् । अनिः-कृतम् । सहः-कृतम् । शतम्-ऊतिम् । शत-क्रतुम् । समानम् । इन्द्रम् । अवसे । हवामहे । वसवानम् । वसु-जुवम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc