ऋग्वेदसंहिता, पदपाठ · अध्याय 8.100
॥3॥.
-र्व्_6:7।4-
(र्व्_8,100)
अयम् । ते । एमि । तन्वा । पुरस्तात् । विश्वे । देवाः । अभि । मा । यन्ति । पश्चात् । यदा । मह्यम् । दीधरः । भागम् । इन्द्र । आत् । इत् । मया । कृणवः । वीर्याणि
दधामि । ते । मधुनः । भक्षम् । अग्रे । हितः । ते । भागः । सुतः । अस्तु । सोमः । असः । च । त्वम् । दक्षिणतः । सखा । मे । अध । वृत्राणि । जङ्घनाव । भूरि
प्र । सु । स्तोमम् । भरत । वाज-यन्तः । इन्द्राय । सत्यम् । यदि । सत्यम् । अस्ति । न । इन्द्रः । अस्ति । इति । नेमः । ओं इति । त्वः । आह । कः । ईम् । ददर्श । कम् । अभि । स्तवाम
अयम् । अस्ति । जरितरिति । पश्य । मा । इह । विश्वा । जातानि । अभि । अस्मि । मह्ना । ऋतस्य । मा । प्र-दिशः । वर्धयन्ति । आदर्दिरः । भुवना । दर्दरीमि
आ । यत् । मा । वेनाः । अरुहन् । ऋतस्य । एकम् । आसीनम् । हर्यतस्य । पृष्ठे । मनः । चित् । मे । हृदे । आ । प्रति । अवोचत् । अचिक्रदन् । शिशु-मन्तः । सखायः
विश्वा । इत् । ता । ते । सवनेषु । प्र-वाच्या । या । चकर्थ । मघ-वन् । इन्द्र । सुन्वते । पारावतम् । यत् । पुरु-सम्भृतम् । वसु । अप-अवृणोः । शरभायः । ऋषि-बन्धवे
॥4॥.
-र्व्_6:7।5-
प्र । नूनम् । धावत । पृथक् । न । इह । यः । वः । अवावरीत् । नि । सीम् । वृत्रस्य । मर्मणि । वज्रम् । इन्द्रः । अपीपतत्
मनः-जवाः । अयमानः । आयसीम् । अतरत् । पुरम् । दिवम् । सु-पर्णः । गत्वाय । सोमम् । वज्रिणः । आ । अभरत्
समुद्रे । अन्तरिति । शयते । उद्ना । वज्रः । अभि-वृतः । भरन्ति । अस्मै । सम्-यतः । पुरः-प्रस्रवणाः । बलिम्
यत् । वाक् । वदन्ती । अवि-चेतनानि । राष्ट्री । देवानाम् । नि-ससाद । मन्द्रा । चतस्रः । ऊर्जम् । दुदुहे । पयांसि । क्व । स्वित् । अस्याः । परमम् । जगाम
देवीम् । वाचम् । अजनयन्त । देवाः । ताम् । विश्व-रूपाः । पशवः । वदन्ति । सा । नः । मन्द्रा । इषम् । ऊर्जम् । दुहाना । धेनुः । वाक् । अस्मान् । उप । सु-स्तुता । एतु
सखे । विष्णो इति । वि-तरम् । वि । क्रमस्व । द्यौः । देहि । लोकम् । वज्राय । वि-स्कभे । हनाव । वृत्रम् । रिणचाव । सिन्धून् । इन्द्रस्य । यन्तु । प्र-सवे । वि-सृष्टाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0