ऋग्वेदसंहिता, पदपाठ · अध्याय 8.98
॥38॥.
-र्व्_6:7।1-
(र्व्_8,98)
इन्द्राय । साम । गायत । विप्राय । बृहते । बृहत् । धर्म-कृते । विपः-चिते । पनस्यवे
त्वम् । इन्द्र । अभि-भूः । असि । त्वम् । सूर्यम् । अरोचयः । विश्व-कर्मा । विश्व-देवः । महान् । असि
वि-भ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । देवाः । ते । इन्द्र । सख्याय । येमिरे
आ । इन्द्र । नः । गधि । प्रियः । सत्राजित् । अगोह्यः । गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः
अभि । हि । सत्य । सोम-पाः । उभे इति । बभूथ । रोदसी इति । । इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः
त्वम् । हि । शश्वतीनाम् । इन्द्र । दर्ता । पुराम् । असि । हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः
॥1॥.
-र्व्_6:7।2-
अध । हि । इन्द्र । गिर्वणः । उप । त्वा । कामान् । महः । ससृज्महे । उत् । एव । यन्तः । उद-भिः
वाः । न । त्वा । यव्याभिः । वर्धन्ति । शूर । ब्रह्माणि । ववृध्वांसम् । चित् । अद्रि--वः । दिवे--दिवे
युञ्जन्ति । हरी इति । इषिरस्य । गाथया । उरौ । रथे । उरु-युगे । इन्द्र-वाहा । वचः-युजा
त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो इतिशत-क्रतो । वि-चर्षणे । आ । वीरम् । पृतनासहम्
त्वम् । हि । नः । पिता । वसो इति । त्वम् । मता । शतक्रतो इतिशत-क्रतो । बभूविथ । अध । ते । सुम्नम् । ईमहे
त्वाम् । शुष्मिन् । पुरु-हूत । वाजयन्तम् । उप । ब्रुवे । शतक्रतो इतिशत-क्रतो । सः । नः । रास्व । सु-वीर्यम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0