ऋग्वेदसंहिता, पदपाठ · अध्याय 8.97
॥35॥.
-र्व्_6:6।36-
(र्व्_8,97)
याः । इन्द्र । भुजः । आ । अभरः । स्वः-वान् । असुरेभ्यः । स्तोतारम् । इत् । मघ-वन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्त-बर्हिषः
यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् । यजमाने । सुन्वत् इ । दक्षिणावति । तस्मिन् । तम् । धेहि । मा । पणौ
यः । इन्द्र । सस्ति । अव्रतः । अनु-स्वापम् । अदेव-युः । स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि । तम् । ततः
यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्र-हन् । अतः । त्वा । गीः-भि ः । द्यु-गत् । इन्द्र । केशि-भिः । सुत-वान् । आ । विवासति
यत् । वा । असि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि । यत् । पार्थिवे । सदने । वृत्रहन्-तम । यत् । अन्तरिक्षे । आ । गहि
॥36॥.
-र्व्_6:6।37-
सः । नः । सोमेषु । सोम-पाः । सुतेषु । शवसः । पते । मादयस्व । राधसा । सूनृतावता । इन्द्र । राया । परीणसा
मा । नः । इन्द्र । परा । वृणक् । भव । नः । सध-माद्यः । त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा । नः । इन्द्र । परा । वृणक्
अस्मे इति । इन्द्र । सचा । सुते । नि । षद । पीतये । मधु । कृधि । जरित्रे । मघ-वन् । अवः । महत् । अस्मे इति । इन्द्र । सचा । सुते
न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रि-वः । विश्वा । जातानि । शवसा । अभि-भूः । असि । न । त्वा । देवासः । आशत
विश्वाः । पृतनाः । अभि-भूतरम् । नरम् । स-जूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे । क्रत्वा । वरिष्ठम् । वरे । आमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम्
॥37॥.
-र्व्_6:6।38-
सम् । ईम् । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये । स्वः-पतिम् । यत् । ईम् । वृधे । धृत-व्रतः । हि । ओजसा । सम् । ऊति-भिः
नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । अभि-स्वरा । सु-दीतयः । वः । अद्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्व-भिः
तम् । इन्द्रम् । जोहवीमि । मघ-वानम् । उग्रम् । सत्रा । दधानम् । अप्रति-स्कुतम् । शवांसि । मंहिष्ठः । गीः-भिः । आ । च । यज्ञियः । ववर्तत् । राये । नः । व् इश्वा । सु-पथा । कृणोतु । वज्री
त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओजसा । सविष्ठ । शक्र । नाशयध्यै । त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेतेइति । पृथिवी इति । च । भीषा
तत् । मा । ऋतम् । इन्द्र । शूर । चित्र । पातु । अपः । न । वज्रिन् । दुः-इता । अति । पर्ष् इ । भूरि । कदा । नः । इन्द्र । रायः । आ । दशस्येः । विश्व-प्स्न्यस्य । स्पृहयाय्यस्य । राजन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0