भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.96

8.96.1

॥31॥.
-र्व्_6:6।32-
(र्व्_8,96)
अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सु-वाचः । अस्मै । आपः । मातरः । सप्त । तस्थुः । नृ-भ्यः । तराय । सिन्धवः । सु-पाराः

8.96.2

अति-विद्धा । विथुरेण । चित् । अस्रा । त्रिः । सप्त । सानु । सम्-हिता । गिरीणाम् । न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्र-वृद्धः । वृषभः । चकार

8.96.3

इन्द्रस्य । वज्रः । आयसः । नि-मिश्लः । इन्द्रस्य । बाह्वोः । भूयिष्ठम् । ओजः । शीर्षन् । इन्द्रस्य । क्रतवः । निरेके । आसन् । आ । ईषन्त । श्रुत्यै । उपाके

8.96.4

मन्ये । त्वा । यज्ञियम् । यज्ञियानाम् । मन्ये । त्वा । च्यवनम् । अच्युतानाम् । मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम्

8.96.5

आ । यत् । वज्रम् । बाह्वोः । इन्द्र । धत्से । मद-च्युतम् । अहये । हन्तवै । ओं इति । प्र । पर्वताः । अनवन्त । प्र । गावः । प्र । ब्रह्माणः । अभि-नक्षन्तः । इन्द्रम्

8.96.6

॥32॥.
-र्व्_6:6।33-
तम् । ओं इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् । इन्द्रेण । मित्रम् । दिधिषेम । गीः-भिः । उपो इति । नमः-भिः । वृषभम् । विशेम

8.96.7

वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः । मरुत्-भिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि

8.96.8

त्रिः । षष्टिः । त्वा । मरुतः । ववृधानाः । उस्राः-इव । राशयः । यज्ञियासः । उप । त्वा । इमः । कृधि । नः । भाग-धेयम् । शुष्मम् । ते । एना । हविषा । विधेम

8.96.9

तिग्मम् । आयुधम् । मरुताम् । अनीकम् । कः । ते । इन्द्र । प्रति । वज्रम् । दधर्ष । अनायुधासः । असुराः । अदेवाः । चक्रेण । तान् । अप । वप । ऋजीषिन्

8.96.10

महे । उग्राय । तवसे । सु-वृक्तिम् । प्र । ईरय । शिव-तमाय । पश्वः । गिवार्हसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत्

8.96.11

॥33॥.
-र्व्_6:6।34-
उक्थ-वाहसे । वि-भ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् । नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्ट-तरस्य । कुवित् । अङ्ग । वेदत्

8.96.12

तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सु-स्तुतिम् । नमसा । विवास । उप । भूष । जरितः । मा । रुवण्यः । श्रावया । वाचम् । कुवित् । अङ्ग । वेदत्

8.96.13

अव । द्रप्सः । अंशु-मतीम् । अतिष्ठत् । इयानः । कृष्णः । दश-भिः । सहस्रैः । आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृ-मनाः । अधत्त

8.96.14

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उप-ह्वरे । नद्यः । अंशु-मत्याः । नभः । न । कृष्णम् । अवतस्थि-वांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ

8.96.15

अध । द्रप्सः । अंशु-मत्याः । उप-स्थे । अधारयत् । तन्वम् । तित्विषाणः । विशः । अदेवीः । अभि । आचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे

8.96.16

॥34॥.
-र्व्_6:6।35-
त्वम् । ह । त्यत् । सप्त-भ्यः । जायमानः । अशत्रु-भ्यः । अभवः । शत्रुः । इन्द्र । गूळ्हे । द्यावापृथिवी इति । अनु । अविन्दः । विभ्मत्-भ्यः । भुवनेभ्यः । रणम् । धाः

8.96.17

त्वम् । ह । त्यत् । अप्रति-मानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ । त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः

8.96.18

त्वम् । ह । त्यत् । वृषभ । चर्षणीनाम् । घनः । वृत्राणाम् । तविषः । बभूथ । त्वम् । सिन्धून् । असृजः । तस्तभानान् । त्वम् । अपः । अजयः । दास-पत्नीः

8.96.19

सः । सु-क्रतुः । रणिता । यः । सुतेषु । अनुत्त-मन्युः । यः । अहाइव । रेवान् । यः । एकः । इत् । नरि । अपांसि । कर्ता । सः । वृत्र-हा । प्रति । इत् । अन्यम् । आहुः

8.96.20

सः । वृत्र-हा । इन्द्रः । चर्षणि-धृत् । तम् । सु-स्तुत्या । हव्यम् । हुवेम । सः । प्र-अविता । मघ-वा । नः । अधि-वक्ता । सः । वाजस्य । श्रवस्यस्य । दाता

8.96.21

सः । वृत्र-हा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव । कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखि-भ्यः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc