भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.95

8.95.1

॥29॥.
-र्व्_6:6।30-
(र्व्_8,95)
आ । त्वा । गिरः । रथीः-इव । अस्थुः । सुतेषु । गिर्वणः । अभि । त्वा । सम् । अनूषत । इन्द्र । वत्सम् । न । मातरः

8.95.2

आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः । पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम्

8.95.3

पिब । सोमम् । मदाय । कम् । इन्द्र । श्येन-आभृतम् । सुतम् । त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि

8.95.4

श्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति । सु-वीर्यस्य । गो--मतः । रायः । पूर्धि । महान् । असि

8.95.5

इन्द्र । यः । ते । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् । चिकित्वित्-मनसम् । ध् इयम् । प्रत्नाम् । ऋतस्य । पिप्युषीम्

8.95.6

॥30॥.
-र्व्_6:6।31-
तम् । ओं इति । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । ववृधुः । पुरूणि । अस्य । पैंस्या । सिसासन्तः । वनामहे

8.95.7

एतो इति । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना । शुद्धैः । उक्थैः । ववृध्वांसम् । शुद्धः । आशीः-वान् । ममत्तु

8.95.8

इन्द्र । शुद्धः । नः । आ । गहि । शुद्धः । शुद्धाभिः । ऊति-भिः । शुद्धः । रयिम् । नि । धारय । शुद्धः । ममद्धि । सोम्यः

8.95.9

इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे । शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिसाससि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc