भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.91

8.91.1

॥13॥.
-र्व्_6:6।14-
(र्व्_8,91)
कन्या । वाः । आव-यती । सोमम् । अपि । स्रुता । अविदत् । अस्तम् । भरन्ती । अब्रवीत् । इन्द्राय । सुनवै । त्वा । शक्राय । सुनवै । त्वा

8.91.2

असौ । यः । एषि । वीरकः । गृहम्-गृहम् । वि-चाकशत् । इमम् । जम्भ-सुतम् । पिब । धानावन्तम् । करम्भिणम् । अपूप-वन्तम् । उक्थिनम्

8.91.3

आ । चन । त्वा । चिकित्सामः । अधि । चन । त्वा । न । इमसि । शनैः-इव । शनकैः-इव । इन्द्राय । इन्दो इति । परि । स्रव

8.91.4

कुवित् । शकत् । कुवित् । करत् । कुवित् । नः । वस्यसः । करत् । कुवित् । पति-द्विषः । यतीः । इन्द्रेण । सम्-गमामहै

8.91.5

इमानि । त्रीणि । विष्टपा । तानि । इन्द्र । वि । रोहय । शिरः । ततस्य । उर्वराम् । आत् । इदम् । मे । उप । उदरे

8.91.6

असौ । च । या । नः । उर्वरा । आत् । इमाम् । तन्वम् । मम । अथो इति । ततस्य । यत् । शिरः । सर्वा । ता । रोमशा । कृधि

8.91.7

खे । रथस्य । खे । अनसः । खे । युगस्य । शतक्रतो इतिशत-क्रतो । अपालाम् । इन्द्र । त्रिः । पूत्वी । अकृणोः । सूर्य-त्वचम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc