ऋग्वेदसंहिता, पदपाठ · अध्याय 8.90
॥12॥.
-र्व्_6:6।13-
(र्व्_8,90)
आ । नः । विश्वासु । हव्यः । इन्द्रः । समत्-सु । भूषतु । उप । ब्रह्माणि । सवनानि । वृत्र-हा । परम-ज्याः । ऋचीषमः
त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशान-कृत् । तुवि-द्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवसः । महः
ब्रह्म । ते । इन्द्र । गिर्वणः । क्रियन्ते । अनतिद्भुता । इमा । जुषस्व । हरि-अश्व । योजना । इन्द्र । या । ते । अमन्महि
त्वम् । हि । सत्यः । मघ-वन् । अनानतः । वृत्रा । भूरि । नि-ऋञ्जसे । सः । त्वम् । शविष्ठ । वज्र-हस्त । दाशुषे । अर्वाञ्चम् । रयिम् । आ । कृधि
त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पते । त्वम् । वृत्राणि । हंसि । अप्रतीनि । एकः । इत् । अनुत्ता । चर्षणि-धृता
तम् । ओं इति । त्वा । नूनम् । असुर । प्र-चेतसम् । राधः । भागम्-इव । ईमहे । मही-इव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्नवत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0