भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.9

8.9.1

॥29॥.
-र्व्_5:8।30-
(र्व्_8,9)
आ । नूनम् । अश्विना । युवम् । वत्सस्य । गन्तम् । अवसे । प्र । अस्मै । यच्छतम् । अवृकम् । पृथु । छर्दिः । युयुतम् । याः । अरातयः

8.9.2

यत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषान् । अनु । नृम्णम् । तत् । धत्तम् । अश्व् इना

8.9.3

ये । वाम् । दंसांसि । अश्विना । विप्रासः । परि-ममृशुः । एव । इत् । काण्वस्य । बोधतम्

8.9.4

अयम् । वाम् । घर्मः । अश्विना । स्तोमेन । परि । सिच्यते । अयम् । सोमः । मधु-मान् । वाजिनीवसूइतिवाजिनी-वसू । येन । वृत्रम् । चिकेतथः

8.9.5

यत् । अप्-सु । यत् । वनस्पतौ । यत् । ओषधीषु । पुरु-दंससा । कृतम् । तेन । मा । अविष्टम् । अश्विना

8.9.6

॥30॥.
-र्व्_5:8।31-
यत् । नासत्या । भुरण्यथः । यत् । वा । देव । भिषज्यथः । अयम् । वाम् । वत्सः । मति-भिः । न । विन्धते । हविष्मन्तम् । हि । गच्छथः

8.9.7

आ । नूनम् । अश्विनोः । ऋषिः । स्तोमम् । चिकेत । वामया । आ । सोमम् । मधुमत्-तमम् । घर्मम् । सिञ्चात् । अथर्वणि

8.9.8

आ । नूनम् । रघु-वर्तनिम् । रथम् । तिष्ठाथः । अश्विना । आ । वाम् । स्तोमाः । इमे । मम । नभः । न । चुच्यवीरत

8.9.9

यत् । अद्य । वाम् । नासत्या । उक्थैः । आचुच्युवीमहि । यत् । वा । वाणीभिः । अश्विना । एव । इत् । काण्वस्य । बोधतम्

8.9.10

यत् । वाम् । कक्षीवान् । उत । यत् । वि-अश्वः । ऋषिः । यत् । वाम् । दीर्घ-तमाः । जुहाव । पृथी । यत् । वाम् । वैन्यः । सदनेषु । एव । इत् । अतः । अश्विना । चेतयेथाम्

8.9.11

॥31॥.
-र्व्_5:8।32-
यातम् । छर्दिः-पौ । उत । नः । परः-पाः । भूतम् । जगत्-पौ । उत । नः । तनू-पा । वर्तिः । तोकाय । तनयाय । यातम्

8.9.12

यत् । इन्द्रेण । सरथम् । याथः । अश्विना । यत् । वा । वायुना । भवथः । सम्-ओकसा । यत् । आदित्येभिः । ऋभु-भिः । स-जोषसा । यत् । वा । विष्णोः । वि-क्रमणेषु । तिष्ठथः

8.9.13

यत् । अद्य । अश्विनौ । अहम् । हुवेय । वाज-सातये । यत् । पृत्-सु । तुर्वणे । सहः । तत् । श्रेष्ठम् । अश्विनोः । अवः

8.9.14

आ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता । इमे । सोमासः । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ

8.9.15

यत् । नासत्या । पराके । आर्वाके । अस्ति । भेषजम् । तेन । नूनम् । वि-मदाय । प्र-चेतसा । छर्दिः । वत्साय । यच्छतम्

8.9.16

॥32॥.
-र्व्_5:8।33-
अभुत्सि । ओं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनोः । वि । आवः । देवि । आ । मतिम् । वि । रातिम् । मर्त्येभ्यः

8.9.17

प्र । बोधय । उषः । अश्विना । प्र । देवि । सूनृते । महि । प्र । यज्ञ-होतः । आनुषक् । प्र । मदाय । श्रवः । बृहत्

8.9.18

यत् । उषः । यासि । भानुना । सम् । सूर्येण । रोचसे । आ । ह । अयम् । अश्विनोः । रथः । वर्तिः । याति । नृ-पाय्यम्

8.9.19

यत् । आपीतासः । अंशवः । गावः । न । दुह्रे । ऊध-भिः । यत् । वा । वाणीः । अनूषत । प्र । देव-यन्तः । अश्विना

8.9.20

प्र । द्युम्नाय । प्र । शवसे । प्र । नृ-सह्याय । शर्मणे । प्र । दक्षाय । प्र-चेतसा

8.9.21

यत् । नूनम् । धीभिः । अश्विना । पितुः । योना । नि-सीदथः । यत् । वा । सुम्नेभिः । उक्थ्या

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc