ऋग्वेदसंहिता, पदपाठ · अध्याय 8.8
॥24॥.
-र्व्_5:8।25-
(र्व्_8,8)
आ । नः । विश्वाभिः । ऊति-भिः । अश्विना । गच्छतम् । युवम् । दस्रा । हिरण्य-वर्तनी इतिहिरण्य-वर्तनी । पिबतम् । सोम्यम् । मधु
आ । नूनम् । यातम् । अश्विना । रथेन । सूर्य-त्वचा । भुजी इति । हिरण्य-पेशसा । कवी इति । गम्भीर-चेतसा
आ । यातम् । नहुषः । परि । आ । अन्तरिक्षात् । सुवृक्ति-भिः । पिबाथः । अश्विना । मधु । कण्वानाम् । सवने । सुतम्
आ । नः । यातम् । दिवः । परि । आ । अन्तरिक्षात् । अध-प्रिया । पुत्रः । कण्वस्य । वाम् । इह । सुसाव । सोम्यम् । मधु
आ । नः । यातम् । उप-श्रुति । अश्विना । सोम-पीतये । स्वाहा । स्तोमस्य । वर्धना । प्र । कवी इति । धीति-भिः । नरा
॥25॥.
-र्व्_5:8।26-
यत् । चित् । हि । वाम् । पुरा । ऋषयः । जुहूरे । अवसे । नरा । आ । यातम् । अश्विना । आ । गतम् । उप । इमाम् । सु-स्तुतिम् । मम
दिवः । चित् । रोचनात् । अधि । आ । नः । गन्तम् । स्वः-विदा । धीभिः । वत्स-प्रचेतसा । स्तोमेभिः । हवन-श्रुता
किम् । अन्ये । परि । आसते । अस्मत् । स्तोमेभिः । अश्विना । पुत्रः । कण्वस्य । वाम् । ऋषिः । गीः-भिः । वत्सः । अवीवृधत्
आ । वाम् । विप्रः । इह । अवसे । अह्वत् । स्तोमेभिः । अश्विना । अरिप्रा । वृत्रहन्-तमा । ता । नः । भूतम् । मयः-भुवा
आ । यत् । वाम् । योषणा । रथम् । अतिष्ठत् । वाजिनीवसूइतिवाजिनी-वसू । विश्वानि । अश्व् इना । युवम् । प्र । धीतानि । अगच्छतम्
॥26॥.
-र्व्_5:8।27-
अतः । सहस्र-निर्निजा । रथेन । आ । यातम् । अश्विना । वत्सः । वाम् । मधु-मत् । वचः । अशंसीत् । काव्यः । कविः
पुरु-मन्द्रा । पुरुवसूइतिपुरु-वसू । मनोतरा । रयीणाम् । स्तोमम् । मे । अश्विनौ । इमम् । अभि । वह्निति । अनूषाताम्
आ । नः । विश्वानि । अश्विना । धत्तम् । राधांसि । अहूया । कृतम् । नः । ऋत्विय-वतः । मा । नः । रीरधतम् । निदे
यत् । नासत्या । परावति । यत् । वा । स्थः । अधि । अम्बरे । अतः । सहस्र-निर्निजा । रथेन । आ । यातम् । अश्विना
यः । वाम् । नासत्यौ । ऋषिः । गीः-भिः । वत्सः । अवीवृधत् । तस्मै । सहस्र-न् इर्निजम् । इषम् । धत्तम् । घृत-श्चुतम्
॥27॥.
-र्व्_5:8।28-
प्र । अस्मै । ऊर्जम् । घृत-श्चुतम् । अश्विना । यच्छतम् । युवम् । यः । वाम् । सुम्नाय । तुस्तवत् । वसु-यात् । दानुनः । पती इति
आ । नः । गन्तम् । रिशादसा । इमम् । स्तोमम् । पुरु-भुजा । कृतम् । नः । सु-श्रियः । नरा । इमा । दातम् । अभिष्टये
आ । वाम् । विश्वाभिः । ऊति-भिः । प्रिय-मेधाः । अहूषत । राजन्तौ । अध्वराणाम् । अश्वि ना । याम-हूतिषु
आ । नः । गन्तम् । मयः-भुवा । अश्विना । शम्-भुवा । युवम् । यः । वाम् । विपन्यूइति । धीति-भिः । गीः-भिः । वत्सः । अवीवृधत्
याभिः । कण्वम् । मेध-अतिथिम् । याभिः । वशम् । दश-व्रजम् । याभिः । गो--शर्यम् । आवतम् । ताभिः । नः । अवतम् । नरा
॥28॥.
-र्व्_5:8।29-
याभिः । नरा । त्रसदस्युम् । आवतम् । कृत्व्ये । धने । ताभिः । सु । अस्मान् । अश्विना । प्र । अवतम् । वाज-सातये
प्र । वाम् । स्तोमाः । सु-वृक्तयः । गिरः । वर्धन्तु । अश्विना । पुरु-त्रा । वृत्रहन्-तमा । ता । नः । भूतम् । पुरु-स्पृहा
त्रीणि । पदानि । अश्विनोः । आविः । सन्ति । गुइहा । परः । कवी इति । ऋतस्य । पत्म-भिः । अर्वाक् । जीवेभ्यः । परि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0