ऋग्वेदसंहिता, पदपाठ · अध्याय 8.10
॥33॥.
-र्व्_5:8।34-
(र्व्_8,10)
यत् । स्थः । दीर्घ-प्रसद्मनि । यत् । वा । अदः । रोचने । दिवः । यत् । वा । समुद्रे । अधि । आकृते । गृहे । अतः । आ । यातम् । अश्विना
यत् । वा । यज्ञम् । मनवे । सम्-मिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् । बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णूइति । अश्विनौ । आशु-हेषसा
त्या । नु । अश्विना । हुवे । सु-दंससा । गृभे । कृता । ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम्
ययोः । अधि । प्र । यज्ञाः । असूरे । सन्ति । सूरयः । ता । यज्ञस्य । अध्वरस्य । प्र-चेतसा । स्वधाभिः । या । पिबतः । सोम्यम् । मधु
यत् । अद्य । अश्विनौ । अपाक् । यत् । प्राक् । स्थः । वाजिनीवसूइतिवाजिनी-वसू । यत् । द्रुह्यवि । अनवि । तुर्वशे । यदौ । हुवे । वाम् । अथ । मा । आ । गतम्
यत् । अन्तरिक्षे । पतथः । पुरु-भुजा । यत् । वा । इमे इति । रोदसी इति । अनु । यत् । वा । स्वधाभिः । अधि-तिष्ठथः । रथम् । अतः । आ । यातम् । अश्विना
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0