ऋग्वेदसंहिता, पदपाठ · अध्याय 8.87
॥9॥.
-र्व्_6:6।10-
(र्व्_8,87)
द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् । मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौ-इव । इरिणे
पिबतम् । घर्मम् । मधु-मन्तम् । अश्विना । आ । बर्हिः । सीदतम् । नरा । ता । मन्दसाना । मनुषः । दुरोणे । आ । नि । पाचम् । वेदसा । वयः
आ । वाम् । विश्वाभिः । ऊति-भिः । प्रिय-मेधाः । अहूषत । ता । वर्तिः । यातम् । उप । वृक्त-बर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु
पिबतम् । सोमम् । मधु-मन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सु-मत् । ता । ववृधानौ । उप । सु-स्तुतिम् । दिवः । गन्तम् । गौरौ-इव । इरिणम्
आ । नूनम् । यातम् । अश्विना । अश्वेभिः । प्रुषितप्सु-भिः । दस्रा । हिरण्यवर्तनी इतिहिरण्य-वर्तनी । शुभः । पती इति । पातम् । सोमम् । ऋत-वृधा
वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाज-सातये । ता । वल्गू इति । दस्रा । पुरु-दंससा । धिया । अश्विना । श्रुष्टी । आ । गतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0