ऋग्वेदसंहिता, पदपाठ · अध्याय 8.88
॥10॥.
-र्व्_6:6।11-
(र्व्_8,88)
तम् । वः । दस्मम् । ऋति-सहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीः-भिः । नवामहे
द्युक्षम् । सु-दानुम् । तविषीभिः । आवृतम् । गिरिम् । न । पुरु-भोजसम् । क्षु-मन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गो--मन्तम् । ईमहे
न । त्वा । बृहन्तः । अद्रयः । वरन्ते । इन्द्र । वीळवः । यत् । दित्ससि । स्तुवते । मावते । वसु । नकिः । तत् । आ । मिनाति । ते
योद्धा । असि । क्रत्वा । शवसा । उत । दंसना । विश्वा । जाता । अभि । मज्मना । आ । त्वा । अयम् । अर्कः । ऊतये । ववर्तति । यम् । गोतमाः । अजीजनन्
प्र । हि । रिरिक्षे । ओजसा । दिवः । अन्तेभ्यः । परि । न । त्वा । विव्याच । रजः । इन्द्र । पार्थिवम् । अनु । स्वधाम् । ववक्षिथ
नकिः । परिष्टिः । मघ-वन् । मघस्य । ते । यत् । दाशुषे । दशस्यसि । अस्माकम् । बोधि । उचथस्य । चोदिता । मंहिष्ठः । वाज-सातये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0