ऋग्वेदसंहिता, पदपाठ · अध्याय 8.86
॥8॥.
-र्व्_6:6।9-
(र्व्_8,86)
उभा । हि । दस्रा । भिषजा । मयः-भुवा । उभा । दक्षस्य । वचसः । बभूवथुः । ता । वाम् । विश्वकः । हवते । तनू-कृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम्
कथा । नूनम् । वाम् । वि-मनाः । उप । स्तवत् । युवम् । धियम् । ददथुः । वस्यः-इष्टये । ता । वाम् । विश्वकः । हवते । तनू-कृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम्
युवम् । हि । स्म । पुरु-भुजा । इमम् । एधतुम् । विष्णाप्वे । ददथुः । वस्यः-इष्टये । ता । वाम् । विश्वकः । हवते । तनू-कृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम्
उत । त्यम् । वीरम् । धन-साम् । ऋजीषिणम् । दूरे । चित् । सन्तम् । अवसे । हवामहे । यस्य । स्वादिष्ठा । सु-मतिः । पितुः । यथा । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम्
ऋतेन । देवः । सविता । शम्-आयते । ऋतस्य । शृङ्गम् । उर्विया । वि । पप्रथे । ऋतम् । ससाह । महि । चित् । पृतन्यतः । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0