ऋग्वेदसंहिता, पदपाठ · अध्याय 8.85
॥6॥.
-र्व्_6:6।7-
(र्व्_8,85)
आ । मे । हवम् । नासत्या । अश्विना । गच्छतम् । युवम् । मध्वः । सोमस्य । पीतये
इमम् । मे । स्तोमम् । अश्विना । इमम् । मे । शृणुतम् । हवम् । मध्वः । सोमस्य । पीतये
अयम् । वाम् । कृष्णः । अश्विना । हवते । वाजिनीवसूइतिवाजिनी-वसू । मध्वः । सोमस्य । पीतये
शृणुतम् । जरितुः । हवम् । कृष्णस्य । स्तुवतः । नरा । मध्वः । सोमस्य । पीतये
छर्दिः । यन्तम् । अदाभ्यम् । विप्राय । स्तुवते । नरा । मध्वः । सोमस्य । पीतये
॥7॥.
-र्व्_6:6।8-
गच्छतम् । दाशुषः । गृहम् । इत्था । स्तुवतः । अश्विना । मध्वः । सोमस्य । पीतये
युञ्जाथाम् । रासभम् । रथे । वीळु-अङ्गे । वृषण्वसूइतिवृषण्-वसू । मध्वः । सोमस्य । पीतये
त्रि-वन्धुरेण । त्रि-वृता । रथेन । आ । यातम् । अश्विना । मध्वः । सोमस्य । पीतये
नु । मे । गिरः । नासत्या । अश्विना । प्र । अवतम् । युवम् । मध्वः । सोमस्य । पीतये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0