भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.84

8.84.1

॥4॥.
-र्व्_6:6।5-
(र्व्_8,84)
प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम्-इव । प्रियम् । अग्निम् । रथम् । न । वेद्यम्

8.84.2

कविम्-इव । प्र-चेतसम् । यम् । देवासः । अध । द्विता । नि । मर्त्येषु । आदधुः

8.84.3

त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुधि । गिरः । रक्ष । तोकम् । उत । त्मना

8.84.4

कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उप-स्तुतिम् । वराय । देव । मन्यवे

8.84.5

दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो इति । कत् । ओं इति । वोचे । इदम् । नमः

8.84.6

॥5॥.
-र्व्_6:6।6-
अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सु-क्षितीः । वाज-द्रविणसः । गिरः

8.84.7

कस्य । नूनम् । परीणसः । धियः । जिन्वसि । दम्-पते । गो--साता । यस्य । ते । गिरः

8.84.8

तम् । मर्जयन्त । सु-क्रतुम् । पुरः-यावानम् । आजिषु । स्वेषु । क्षयेषु । वाजिनम्

8.84.9

क्षेति । क्षेमेभिः । साधु-भिः । नकिः । यम् । घ्नन्ति । हन्ति । यः । अग्ने । सु-वीरः । एधते

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc