ऋग्वेदसंहिता, पदपाठ · अध्याय 8.81
॥36॥.
-र्व्_6:5।37-
(र्व्_8,81)
आ । तु । नः । इन्द्र । क्षु-मन्तम् । चित्रम् । ग्राभम् । सम् । गृभय । महाहस्ती । दक्षिणेन
विद्म । हि । त्वा । तुवि-कूर्मिम् । तुवि-देष्णम् । तुवी-मघम् । तुवि-मात्रम् । अवः-भि ः
नहि । त्वा । शूर । देवाः । न । मर्तासः । दित्सन्तम् । भीमम् । न । गाम् । वारयन्ते
एतो इति । नु । इन्द्रम् । स्तवाम । ईशानम् । वस्वः । स्व-राजम् । न । राधसा । मर्धिषत् । नः
प्र । स्तोषत् । उप । गासिषत् । श्रवत् । साम । गीयमानम् । अभि । राधसा । जुगुरत्
॥37॥.
-र्व्_6:5।38-
आ । नः । भर । दक्षिणेन । अभि । सव्येन । प्र । मृश । इन्द्र । मा । नः । वसोः । निः । भाक्
उप । क्रमस्व । आ । भर । धृषता । धृष्णो इति । जनानाम् । अदाशूः-तरस्य । वेदः
इन्द्र । यः । ओं इति । नु । ते । अस्ति । वाजः । विप्रेभिः । सनित्वः । अस्माभिः । सु । तम् । सनुहि
सद्यः-जुवः । ते । वाजाः । अस्मभ्यम् । विश्व-चन्द्राः । वशैः । च । मक्षु । जरन्ते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0