भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 8.80

8.80.1

॥34॥.
-र्व्_6:5।35-
(र्व्_8,80)
नहि । अन्यम् । बला । अकरम् । मर्डितारम् । शतक्रतो इतिशत-क्रतो । त्वम् । नः । इन्द्र । मृळय

8.80.2

यः । नः । शश्वत् । पुरा । आविथ । अमृध्रः । वाज-सातये । सः । त्वम् । नः । इन्द्र । मृळय

8.80.3

किम् । अङ्ग । रध्र-चोदनः । सुन्वानस्य । अविता । इत् । असि । कुवित् । सु । इन्द्र । णः । शकः

8.80.4

इन्द्र । प्र । नः । रथम् । अव । पश्चात् । चित् । सन्तम् । अद्रि-वः । पुरस्तात् । एनम् । मे । कृधि

8.80.5

हन्तो इति । नु । किम् । आससे । प्रथमम् । नः । रथम् । कृधि । उप-मम् । वाज-यु । श्रवः

8.80.6

॥35॥.
-र्व्_6:5।36-
अव । नः । वाज-युम् । रथम् । सु-करम् । ते । किम् । इत् । परि । अस्मान् । सु । जिग्युषः । कृधि

8.80.7

इन्द्र । दृह्यस्व । पूः । असि । भद्रा । ते । एति । निः-कृतम् । इयम् । धीः । ऋत्विय-वती

8.80.8

मा । सीम् । अवद्ये । आ । भाक् । उर्वी । काष्ठा । हितम् । धनम् । अप-आवृक्ताः । अरत्नयः

8.80.9

तुरीयम् । नाम । यज्ञियम् । यदा । करः । तत् । उश्मसि । आत् । इत् । पतिः । नः । ओहसे

8.80.10

अवीवृधत् । वः । अमृताः । अमन्दीत् । एक-द्यूः । देवाः । उत । याः । च । देवीः । तस्मै । ओं इति । राधः । कृणुत । प्र-शस्तम् । प्रातः । मक्षु । धियावसुः । जगम्यात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc